Friday, October 14, 2016

*****Sri Venkateshwara Sahasranama Stotram*****॥ श्रीवेङ्कटेशसहस्रनामस्तोत्रम् ॥

*****Sri Venkateshwara Sahasranama Stotram*****

॥ श्रीवेङ्कटेशसहस्रनामस्तोत्रम् ॥

श्रीवसिष्ठ उवाच-
भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ १॥

पृच्छामि तानि नामानि गुण योगपराणि किम् ।
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥ २॥

नारद उवाच -
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् । 
मुख्य वृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥ ३॥ 
परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् । 
आदिमध्यान्तरहितः त्वव्यक्तोऽनन्तरूपभृत् ॥ ४॥ 
चन्द्रार्क वह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ ५॥

तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ ६॥

ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत ।
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ ७॥

वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छन्दोऽनुष्ठुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥ ८॥

बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ओं नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ ९॥

ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥

ध्यानं - 
भास्वच्छंद्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥

ऊर्ध्वै हस्तौ यदीयौ सुररिपुदळने बिभ्रतौ शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् 
इति ध्यायन् वेङ्कटेशं श्रीवत्साङ्कं रमापतिम् ।
वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥ १०॥

वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः ।
विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥ ११॥

शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ १२॥

विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ १३॥

कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः ।
कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ १४॥

शम्भुः स्वयम्भूरम्भोजनाभिस्तम्भितवारिधिः ।
अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ १५॥

कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः ।
बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिगः ॥ १६॥

गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः 
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ १७॥

परेशः परमात्मा च परञ्ज्योतिः परा गतिः ।
परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ १८॥

ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृढ्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ १९॥

सत्यव्रतार्थसन्तुष्टस्सत्यरूपी झषाङ्गवान् ।
सोमकप्राणहारी चानीताम्नायोऽब्धिसञ्चरः ॥ २०॥

देवासुरवरस्तुत्यः पतन्मन्दरधारकः ।
धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः ॥ २१॥

अमरामृतसन्धाता धृतसम्मोहिनीवपुः ।
हरमोहकमायावी रक्षःसन्दोहभञ्जनः ॥ २२॥

हिरण्याक्षविदारी च यज्ञो यज्ञ विभावनः ।
यज्ञीयोर्वीसगुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ २३॥

दण्डकासुरविध्वंसी वक्रदंष्ट्र क्षमाधरः ।
गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः ॥ २४॥

करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥ २५॥ 
द्राघीयान् नीलकेशी च जाग्रदम्बुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥ २६॥

ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिण्णमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥ २७॥

उच्छ्वासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् ।
अन्तर्भ्रमज्जगद्गर्भोऽनन्तो ब्रह्मकपालहृत् ॥ २८॥

उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ २९॥

सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥ ३०॥

हिरण्यकोरस्थलभिन्ननखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसङ्घ प्रतिष्ठितः ॥ ३१॥

ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ ३२॥

खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः ॥ ३३॥

मौञ्जीयुक् छात्रको दण्डी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ ३४॥

अहीनशयनप्रीतः आदितेयोऽनघो हरिः ।
संवित्प्रियस्सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ ३५॥

बलिक्षालितपादाब्जो विन्द्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ ३६॥

धृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ ३७॥

विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत् सुगतीश्वरः ॥ ३८॥

जामदग्न्यः कुठारी च कार्तवीर्यविदारणः ।
रेणुकायाश्शिरोहारी दुष्टक्षत्रियमर्दनः ॥ ३९॥

वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ ४०॥

रविवंशसमुद्भूतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्र प्रियङ्करः ॥४१॥

ताटकारिः सुबाहुघ्नो बलातिबलमन्त्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ ४२॥

स्वयंवरसभासंस्थ ईशचापप्रभञ्जनः ।
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ ४३॥

जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ ४४॥

ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ ४५॥

पञ्चवट्यां विहारी च स्वधर्मपरिपोषकः ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः ॥ ४६॥

इन्द्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ ४७॥

ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥ ४८॥

पक्षिराट्कृतसंवादो रवितेजा महाबलः ।
शबर्यानीतफलभुग्धनूमत्परितोषितः ॥ ४९॥

सुग्रीवाभयदो दैत्यकायक्षेपणभासुरः ।
सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ ५०॥

वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः ।
उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥ ५१॥

सेतुकृद्दैत्यहा प्राप्तलङ्कोऽलङ्कारवान् स्वयम् ।
अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ ५२॥

दशकण्ठशिरोध्वंसी जांबवत्प्रमुखावृतः ।
जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥ ५३॥

पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसरःकेळिलोलो लक्ष्मीशो लोकरक्षकः ॥ ५४॥

देवकीगर्भसंभूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ ५५॥

चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ ५६॥

गर्गारोपितनामाङ्को वासुदेवो ह्याधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ ५७॥

वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ ५८ ॥

नवनीतापहर्ता च नीलनीरदभासुरः ।
अभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥ ५९॥

मातृदर्शितविश्वास्यः उलूखलनिबन्धनः ।
नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ ६०॥

गोसङ्घरक्षकः श्रीशो बृन्दारण्यनिवासकः ।
वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिलः ॥ ६१ ॥

महाजगरचण्डाग्निः शकटप्राणकण्टकः ।
इन्द्रसेव्यः पुण्यगात्रः खरजिञ्वण्डदीधितिः ॥ ६२॥

तालपक्वफलाशी च काळीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ ६३॥

दावाग्निबलसंहारी फलहारी गदाग्रजः ।
गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ ६४॥

वंशीगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥ ६५॥

गोवर्द्धनाद्रिसन्धर्ता सङ्क्रन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ ६६॥

वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायौवनदायकः ॥ ६७॥

मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ ६८॥

मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्टाता रत्नसिंहासनस्थितः ॥ ६९॥

कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ ७०॥

रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥ ७१॥

मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ ७२॥

कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः ।
मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः ॥ ७३॥

सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ ७४॥

भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः ।
किरीटकुण्डलधरः कल्पपल्लवलालितः ॥ ७५॥

भैष्मीप्रणयभाषावान् मित्रविन्दाधिपोऽभयः ।
स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ ७६॥

प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ ७७॥

बहुरामाकृताह्लादो गन्धमाल्यानुलेपनः ।
नारदादृष्टचरितो देवेशो विश्वराड् गुरुः ॥ ७८॥

बाणबाहुविदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ ७९॥

महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः ।
नृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः ॥ ८०॥

विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः ।
जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ ८१॥

चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः ।
राजसूयहविर्भोक्ता स्निग्धाङ्गः शुभलक्षणः ॥ ८२॥

धानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः ।
सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः ॥ ८३॥

भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दन्तवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ ८४॥

वैजयन्तीप्रमोदी च बर्हिबर्हविभूषणः ।
पार्थकौरवसन्धानकारी दुःशासनान्तकः ॥ ८५॥

बुद्दो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः ।
त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ ८६॥

निर्विकारो निर्ममश्च निराभासो निरामयः ।
जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥ ८७॥

कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः ।
धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥ ८८॥

युगान्तको युगाक्रान्तो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥ ८९॥

भर्गो वरेण्यं सवितुः शार्ङ्गी वैकुण्ठमन्दिरः ।
हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥ ९०॥

सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपर्दी कामहारी च कला काष्टा स्मृतिर्धृतिः ॥ ९१॥

अनादिरप्रमेयौज्ञाः प्रधानः सन्निरूपकः ।
निर्लोपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ ९२॥

निष्पेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः
कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ ९३॥

कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती ।
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥ ९४॥

नरो नारायणो दान्तः कपिलः कामदः शुचिः ।
तप्ता जप्ताऽक्षमालावान् गन्ता नेता लयो गतिः ॥ ९५॥

शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥ ९६॥

मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहृत् । 
मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः ॥ ९७॥

मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ ९८॥

स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः।
निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः ॥ ९९॥

निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः ।
अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्रिरनन्तदृक् ॥ १००॥

अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् । 
ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्ध्वोर्ध्वशाखकः ॥ १०१॥

ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः ।
बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ १०२॥

महानणीयन् गरिमा सुषमा चित्रमालिकः ।
नभस्स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥ १०३॥

अभुर्विभुः प्रभुः शम्भुर्महीयान भूर्भुवाकृतिः ।
महानन्दो महाशूरो महोराशिर्महोत्सवः ॥ १०४॥

महाक्रोधो महाज्वालो महाशान्तो महागुणः ।
सत्यव्रतः सत्यपरः सत्यसन्धः सतांगतिः ॥ १०५॥

सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः ।
अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः ॥ १०६॥

रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः ।
मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ १०७॥

अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् ।
स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः ॥ १०८॥

अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् ।
शङ्खवान्पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः ॥ १०९॥

अम्भोजमकरन्दाढ्यो निष्पङ्कोऽगरुपङ्किलः ।
इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ ११०॥

उपेन्द्र इन्द्रराजश्च वागिन्द्रश्चन्द्रलोचन ।
प्रत्यक् पराक् परंधाम परमार्थः परात्परः ॥ १११॥

अपारवाक् पारगामी पारावारः परावरः ।
सहस्वानर्थदाता च सहनः साहसी जयी ॥ ११२॥

तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् ॥ ११३॥

अम्भोधिशायी भगवान् सर्वज्ञस्सामपारगः ।
महायोगी महाधीरो महाभोगी महाप्रभुः ॥ ११४॥

महावीरो महातुष्टिर्महापुष्टिर्महागुणः ।
महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥ ११५॥

समीपगो दूरगामी स्वर्गमार्गनिरर्गलः ।
नगो नगधरो नागो नागेशो नागपालकः ॥ ११६॥

हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः ।
गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ ११७॥

जन्मभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी ।
दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोऽलयः ॥ ११८॥

जलन्धरान्तको भस्मदैत्यनाशी महामनाः ।
श्रेष्टश्श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥ ११९॥

ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघियान् प्रणवः फणी ।
सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ १२०॥

निर्निमेषो विधिर्वेधा बलवान् जीवनं बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ १२१॥

होता पोता महावक्ता रन्त मन्ता खलान्तकः ।
दाता ग्राहयिता माता नियन्ताऽनन्त वैभवः ॥ १२२॥

गोप्ता गोपयिता हन्ता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥ १२३॥

क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥ १२४॥

शक्तियुङ्जौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः ।
धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ १२५॥

महाधनो महामानी दुर्योधनविमानितः ।
रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥ १२६॥

रत्नसानुनिधिर्मौळिरत्नाभा रत्नकङ्कणः ।
अन्तर्लक्ष्योऽन्तरम्यासी चान्तर्ध्येयो जितासनः ॥ १२७॥

अन्तरङ्गो दयावांश्च ह्यांतर्मायो महार्णवः ।
सरससिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ १२८॥

आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो त्रती ॥ १२९॥

अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् ।
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥ १३०॥

दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः ।
सुवर्णवर्णस्सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ १३१॥

सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ १३२॥

अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः ।
महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ १३३॥

सुदर्शनः कालमेघश्यामश्श्रीमन्त्रभावितः ।
हेमाम्बुजसरःस्नायी श्रीमनोभाविताकृतिः ॥ १३४॥

श्रीप्रदताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ १३५॥

संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ १३६॥

कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ १३७॥

वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः ।
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥ १३८॥

वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगो वायुसंभृतः ॥ १३९॥

यमान्तकोऽभिजननो यमलोकनिवारणः ।
यमिनामग्रगण्यश्च संयमी यमभावितः ॥ १४०॥

इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः । 
यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥ १४१॥

स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहः ॥ १४२॥

पाण्डुतीर्थभिषिक्ताङ्गो युधिष्ठिरवरप्रदः ।
भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् ॥ १४३॥

नकुलाभयदो माद्रीसहदेवाभिवन्दितः ।
कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ १४४॥

नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥ १४५॥

षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः ।
बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ १४६॥

तुम्बुरूदक संस्पर्शजनचित्ततमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ १४७॥

चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्टितः ॥ १४८॥

जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुस्नाताघविनाशनः ॥ १४९॥

नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥ १५०॥

वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी ।
प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ १५१॥

नीलगोक्षीरधाराभूर्वराहाचलनायकः ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ १५२॥

अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः ।
अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ १५३॥

किन्नरद्वयसम्बन्धिबन्धमोक्षप्रदायकः ।
वैखानसमखारम्भो वृषज्ञेयो वृषाचलः ॥ १५४॥

वृषकायप्रभेत्ता च क्रीडनाचारसंभ्रमः ।
सौवर्चलेयविन्यस्तराज्यो नारायण प्रियः ॥ १५५॥

दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्चेता भद्रक्षेत्री सुभद्रवान् ॥ १५६॥

मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् ॥ १५७॥

भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्रार्कच्छटाभास्वद्यिमानन्तःस्थितो गुणी ॥ १५८॥

विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृताः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ १५९॥

सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः ।
राकेन्दुसङ्काशनखः कोमलाङ्घ्रसरोरुहः ॥ १६०॥

कच्छपप्रपदः कुन्दगुल्पकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥ १६१॥

प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः ।
अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥ १६२॥

मन्दारचाम्पेयमाली रत्नाभरणसंभृतः ।
लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ १६३॥

वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् ।
श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥ १६४॥

नीलोत्पल निभाकारः शोणाम्भोजसमाननः ।
कोटीमन्मथलावण्यचन्द्रिकास्मितपूरितः ॥ १६५॥

सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः ।
पुण्डरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥ १६६॥

पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः ।
वह्निमंडलगः सूर्यः सूर्यमण्डलसंस्थितः ॥ १६७॥

श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः ।
जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ १६८॥

अवस्थात्रययन्ता च विश्वतेजस्स्वरूपवान् ।
ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ १६९॥

ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः ।

वेङ्कटाद्रिगदाधर ॐ नमः इति ॥

एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतम् ॥ १७०॥

नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्द्धनम् ।
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥ १७१॥

दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदिज्वरापस्मारभञ्जनम् ॥ १७२॥

शत्रुक्षयकरं राजग्रहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥ १७३॥

विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामो महायशाः ॥ १७४॥

पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्तनः ।
सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ १७५॥

दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ १७६॥

कह्लारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ १७७॥

हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छितार्थ तदा दत्वा वैकुण्ठं च प्रयच्छति ॥ १७८॥

त्रिसन्ध्यं यो जपेन्नित्यं संपूज्य विधिना विभुम् ।
त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशो यमी ॥ १७९॥

मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्यं ततस्संभाषणं भवेत् ॥ १८०॥

मासं पठन्न्यूनकर्ममूर्तिं च समवाप्नुयात् ।
मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥ १८१॥

चाञ्चल्यचित्तोऽचाञ्चल्यं मनस्स्वास्थ्यं च गच्छति ।
आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति ॥ १८२॥

सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा ।
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥ १८३॥

श्री भ्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये
श्री वेङ्कटेश सहस्रनाम स्तोत्राध्यायः समाप्तः ॥

6 comments:

My Blog List

Followers

Total Pageviews